यु॒वं श्री॒भिर्द॑र्श॒ताभि॑रा॒भिः शु॒भे पु॒ष्टिमू॑हथुः सू॒र्यायाः॑। प्र वां॒ वयो॒ वपु॒षेऽनु॑ पप्त॒न्नक्ष॒द्वाणी॒ सुष्टु॑ता धिष्ण्या वाम् ॥६॥
yuvaṁ śrībhir darśatābhir ābhiḥ śubhe puṣṭim ūhathuḥ sūryāyāḥ | pra vāṁ vayo vapuṣe nu paptan nakṣad vāṇī suṣṭutā dhiṣṇyā vām ||
यु॒वम्। श्री॒भिः। द॒र्श॒ताभिः॑। आ॒भिः। शु॒भे। पु॒ष्टिम्। ऊ॒ह॒थुः॒। सू॒र्यायाः॑। प्र। वा॒म्। वयः॑। वपु॑षे। अनु॑। प॒प्त॒न्। नक्ष॑त्। वाणी॑। सुऽस्तु॑ता। धि॒ष्ण्या॒। वा॒म् ॥६॥
स्वामी दयानन्द सरस्वती
फिर राजादि किसके लिये किसको प्राप्त होके कैसे हों, इस विषय को कहते हैं ॥
स्वामी दयानन्द सरस्वती
पुना राजादयः कस्मै कां प्राप्य कीदृशा भवेयुरित्याह ॥
हे धिष्ण्या ! यदि वां वय इव पप्तन् शुभे वपुषे सुष्टुता वाण्यनु नक्षद् यदि युवं दर्शताभिराभिः श्रीभिः सूर्याया इव वाचः पुष्टिं प्रोहथुस्तर्हि तौ वां सततं पोषयेतम् ॥६॥